Thursday, November 21, 2024

व्यावहारिक दृश्यावली(SHORT STORIES)

 एका महिला वस्त्रप्रक्षालनचूर्णं आनेतुं विपणीं अगच्छत्। मार्गे गच्छती सा देवालयं दृष्ट्वा तत्र अगच्छत्। देवालये देवदर्शनं कृत्वा एकस्मिन् आपणे प्रविष्टा। 

महिला - (अपृच्छत् आपणिकाम् ) वस्त्रप्रक्षालनचूर्णं  अस्ति वा न? 

आपणिका - आम् , अस्ति। (आपणिका आहूतवती ) भो भगिनी! आगच्छतु शीघ्रम् आपणाभ्यन्तरम् तव हस्ते औषधिं लेपयिष्यामि।

                         (एतत् श्रुत्वा आश्चर्येण सह)

 महिला  आहुः - (आश्चर्येण सह)  नही, नही,  किमपि न भवति। कुत्रचिदपि मम शरीरे आघातः न भवति। (स्मरणं कृत्वा)  भवती तु रक्तवर्णं सिन्दूरयुक्तं अङ्गुलिं दृष्टवा तस्मात् रुधीरः निर्गच्छति इति मन्यते किल ।

आपणिका -  आम्।
 महिला -   (स्मितमुखेन अवदत्) अहं संप्रति विपणीं आगमन समये मार्गेस्य दक्षिणतः आगतं देवालयं गतवती।
तत्र देवदर्शनं कृत्वा मस्तके सिन्दूरं धारितवती। किञ्चित् सिन्दूरं अङ्गुल्यां धारयित्वा परिवारसदस्यानां कृते नयामि।
आपणिका - समीचीनमस्ति। अहमपि एवं  करोमि इति उक्तवा अहसताम् उभयौ।

No comments:

Post a Comment

सुभाषितम्(NOBLE THOUGHTS)

 अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः)  अर्थ  -               प्रतिदिन नियमितरूपसे गुरु...